(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.114. अध्यायः 114
Mahabharata - Drona Parva - Chapter Topics
धृतराष्ट्रस्य स्वसैन्यपराजयश्रवणेन शोचनम्॥ 1 ॥ सञ्जयेन तदुपालम्भपूर्वकं कृतवर्मपराक्रमकथनम्॥ 2 ॥


Mahabharata - Drona Parva - Chapter Text

धृतराष्ट्र उवाच। 7-114-0x(4554)(49444)
एवं बहुगुणं सैन्यमेवं प्रविचितं बलम्।
व्यूढमेवं यथान्यायमेवं बहु च सञ्जय॥ 7-114-1(49445)
नित्यं पूजितमस्माभिरभिकामं च नः सदा।
प्रौढमत्यद्भुताकारं पुरस्ताद्दृष्टविक्रमम्॥ 7-114-2(49446)
नातिवृद्वमबालं च नाकृशं नातिपीवरम्।
लघुवृत्तायतप्रायं सारगात्रमनामयम्॥ 7-114-3(49447)
आत्तसन्नाहसञ्छन्नं बहुशस्त्रपरिच्छदम्।
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम्॥ 7-114-4(49448)
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते।
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्॥ 7-114-5(49449)
नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम्।
`चर्मनिस्त्रिंशयुद्धे च नियुद्धे च विशारदम्'।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्॥ 7-114-6(49450)
न गोष्ठ्या नोपकारेण न सम्बन्धनिमित्ततः।
नानाहूतं नाप्यभृतं मम सैन्यं बभूव ह॥ 7-114-7(49451)
कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम्।
कृतमानोपचारं च यशस्वि च मनस्वि च॥ 7-114-8(49452)
सचिवैश्चापरैर्मुख्यैर्बहुभिः पुण्यकर्मभिः।
लोकपालोपमैस्तात पालितं नरसत्तमैः॥ 7-114-9(49453)
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः।
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः॥ 7-114-10(49454)
महोदधिमिवापूर्णमापगाभिः समन्ततः।
अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम्॥ 7-114-11(49455)
प्रभिन्नकरटैश्चैव द्विरदैरावृतं महत्।
यदहन्यत मे सैन्यं किमन्यद्भागधेयतः॥ 7-114-12(49456)
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम्।
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम्॥ 7-114-13(49457)
ध्वजभूषणसम्बाधरत्नोपलसुसञ्चितम्।
वाहनैरभिधावद्भिर्वायुवेगविकम्पितम्॥ 7-114-14(49458)
द्रोणगम्भीरपातालं कृतवर्ममहाहदम्।
जलसन्धमहाग्राहं कर्मचन्द्रोदयोद्धतम्॥ 7-114-15(49459)
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे।
सञ्जयैकरथेनैव युयुधाने च मामकम्॥ 7-114-16(49460)
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि।
सात्वते च रथोदारे मम सैन्यस्य सञ्जय॥ 7-114-17(49461)
तौ तत्र समतिक्रान्तौ दृष्ट्वाऽतीव तरस्विनौ।
सिन्धुराजं तु सम्प्रेक्ष्य गाण्डीवस्य च गोचरम्॥ 7-114-18(49462)
किं नु वा कुरवः कृत्यं विदधुः कालचोदिताः।
दारुणैकायनेऽकाले कथं वा प्रतिपेदिरे॥ 7-114-19(49463)
ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात सङ्गतान्।
विक्रमोऽपि रणे तेषां न तथा दृश्यते हि वै॥ 7-114-20(49464)
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ।
न च वारयिता कश्चित्तयोरस्तीह सञ्जय॥ 7-114-21(49465)
भृताश्च बहवो योधाः परीक्ष्यैव महारथाः।
वेतनेन यथायोगं प्रियवादेन चापरे॥ 7-114-22(49466)
असत्कारभृतस्तात मम सैन्ये न विद्यते।
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम्॥ 7-114-23(49467)
न च योधोऽभवत्कश्चिन्मम सैन्ये तु सञ्जय।
अल्पदानभृतस्तात तथा चाभृतको नरः॥ 7-114-24(49468)
पूजितो हि यथाशक्त्या दानमानासनैर्मया।
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः॥ 7-114-25(49469)
ते च प्राप्यैव सङ्ग्रामे निर्जिताः सव्यसाचिना।
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः॥ 7-114-26(49470)
रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः।
एकः साधारणः पन्थार रक्ष्यस्य सह रक्षिभिः॥ 7-114-27(49471)
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम्।
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत॥ 7-114-28(49472)
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत्।
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत॥ 7-114-29(49473)
सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथिसत्तमौ।
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः॥ 7-114-30(49474)
दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम्।
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः॥ 7-114-31(49475)
दृष्टा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च।
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः॥ 7-114-32(49476)
विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये।
पलायनकृतोत्साहान्मन्ये शोचन्ति पुत्रकाः॥ 7-114-33(49477)
शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च।
हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः॥ 7-114-34(49478)
व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहृस्रशः।
धावमानान्रणे व्यग्रामन्यन्ये शोचन्ति पुत्रकाः॥ 7-114-35(49479)
महानागान्विद्रवतो दृष्ट्वाऽर्जुनशराहतान्।
पतितान्पततश्चान्यान्मन्ये शोचन्ति पुत्रकाः॥ 7-114-36(49480)
विहीनांश्च कृतानश्वान्विरथांश्च कृतान्नरान्।
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः॥ 7-114-37(49481)
हयौघान्निहतान्दृष्ट्वा द्रवमाणांस्ततस्ततः।
रणे माधवपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः॥ 7-114-38(49482)
पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः।
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः॥ 7-114-39(49483)
द्रोणस्य समतिक्रान्तावनीकमपराजितौ।
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः॥ 7-114-40(49484)
सम्मूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ।
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ॥ 7-114-41(49485)
तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे।
भोजानीकं व्यतिक्रान्ते किमकुर्वत कौरवाः॥ 7-114-42(49486)
तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु।
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व सञ्जय॥ 7-114-43(49487)
द्रोणो हि बलवान्श्रेष्ठः कृतास्त्रो युद्धदुर्मदः।
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे॥ 7-114-44(49488)
बद्धवैरास्ततो द्रोणे धनञ्जयजयैषिणः।
भारद्वाजसुतस्तेषु दृढवैरो महारथः॥ 7-114-45(49489)
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति।
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय॥ 7-114-46(49490)
सञ्जय उवाच। 7-114-47x(4555)
आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ।
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि॥ 7-114-47(49491)
पुरा यदुच्यसे प्राज्ञैः सुहृद्भिर्विदुरादिभिः।
मा हार्षीः पाण्डवान्राजन्निति तन्न त्वया श्रुतम्॥ 7-114-48(49492)
सुहृदां हितकामानां वाक्यं यो न शृणोति ह।
स महद्व्यसनं प्राप्य शोचते वै यथा भवान्॥ 7-114-49(49493)
याचितोऽसि पुरा राजन्दाशार्हेण शमं प्रति।
न च तं लब्धवान्कामं त्वत्तः कृष्णो महायशाः॥ 7-114-50(49494)
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च।
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम्॥ 5-114-52 तव जिह्ममभिप्रायं विदित्वा पाण्डवान्प्रति।
आर्तप्रलापांश्च बहून्मनुजाधिप सत्तम॥ 7-114-51(49495)
सर्वलोकस्य तत्त्वज्ञः सर्वलोकेश्वरः प्रभुः।
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत्॥ 7-114-53(49496)
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः।
नैनं दुर्योधने दोषं कर्तुमर्हसि मानद॥ 7-114-54(49497)
न हि तै सुकृतं किञ्चिदादौ मध्ये च भारत।
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः॥ 7-114-55(49498)
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम्।
शृणु युद्धं यथावृत्तं घोरं देवासुरोपमम्॥ 7-114-56(49499)
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे।
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव॥ 7-114-57(49500)
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान्।
दधारैको रणे पाण्डून्कृतवर्मा महारथः॥ 7-114-58(49501)
यथोद्वृत्तं वारयते वेला वै सलिलार्णवम्।
पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारयत्॥ 7-114-59(49502)
तत्राद्भुतमपश्याम हार्दिक्यस्य पराक्रमम्।
यदेनं सहिताः पार्था नातिचक्रमुराहवे॥ 7-114-60(49503)
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमाशुगैः।
शङ्खं दध्मौ महाबाहुर्हर्षुयन्सर्वपाण्डवान्॥ 7-114-61(49504)
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः।
शतेन नकुलश्चापि हार्दिक्यं समविध्यत॥ 7-114-62(49505)
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः।
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत्॥ 7-114-63(49506)
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः।
शिखण्डी चैव हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः॥ 7-114-64(49507)
पुनर्विव्याध विंशत्या सायकानां हसन्निव।
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान्॥ 7-114-65(49508)
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः।
धनुर्ध्वजं चास्य तदा रथाद्भूमावपातयत्॥ 7-114-66(49509)
अथैनं छिन्नधन्वानं त्वरमाणो महारथः।
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः॥ 7-114-67(49510)
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः।
चचाल रथमध्यस्थः क्षितिकम्पे यथाऽचलः॥ 7-114-68(49511)
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः।
विसृजन्तः शरान्राजन्कृतवर्माणमार्दयन्॥ 7-114-69(49512)
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष।
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे॥ 7-114-70(49513)
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः।
शक्तिं जग्राह समरे हेमदण्डामयस्मायीम्॥ 7-114-71(49514)
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति।
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा॥ 7-114-72(49515)
कृतवर्माणमभितः प्रजज्वाल सुदारुणा।
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम्॥ 7-114-73(49516)
द्वाभ्यां शराभ्यां हार्दिक्यो निजघान द्विधा तदा।
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा॥ 7-114-74(49517)
द्योतयन्ती दिशो राजन्महोल्केव नभश्च्युता।
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम्॥ 7-114-75(49518)
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम्।
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत्॥ 7-114-76(49519)
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे।
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन च॥ 7-114-77(49520)
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष।
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे॥ 7-114-78(49521)
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव।
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत॥ 7-114-79(49522)
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान्।
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः॥ 7-114-80(49523)
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः।
धनुश्चिच्छेद सामरे प्रहसन्निव सात्वतः॥ 7-114-81(49524)
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरः।
असिं जग्राह समरे शतचन्द्रं च भास्वरम्॥ 7-114-82(49525)
भ्रामयित्वा महच्चर्म चामीकरविभूषितम्।
तमसिं प्रेषयामात कृतवर्मरथं प्रति॥ 7-114-83(49526)
स तस्य सशरं चापं छित्त्वा राजन्महानसिः।
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात्॥ 7-114-84(49527)
एतस्मिन्नेव काले तु त्वरमाणं महारथाः।
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे॥ 7-114-85(49528)
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः।
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा॥ 7-114-86(49529)
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः।
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च॥ 7-114-87(49530)
धनुरन्यत्समादाय शिखण्डी तु महायशाः।
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम्॥ 7-114-88(49531)
ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः।
अभिदुद्राव वेगेन याज्ञसेनिं महारथम्॥ 7-114-89(49532)
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः।
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम्॥ 7-114-90(49533)
तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ।
समापेततुरन्योन्यं शरसङ्घैररिन्दमौ॥ 7-114-91(49534)
विधुन्वानौ धनुःश्रेष्ठे सन्दधानौ च सायकान्।
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ॥ 7-114-92(49535)
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ।
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव॥ 7-114-93(49536)
कृतवर्मा च समरे याज्ञसेनिं महारथम्।
विद्ध्वेषुभिस्त्रिसप्तत्या पुनर्विव्याध सप्तभिः॥ 7-114-94(49537)
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्।
विसृज्य सशरं चापं मूर्च्छयाऽभिपरिप्लुतः॥ 7-114-95(49538)
तं विषण्णं रणे दृष्ट्वा तावकाः पुरुषर्षभ।
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह॥ 7-114-96(49539)
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम्।
अपोवाह रणाद्यन्ता त्वरमाणो महारथम्॥ 7-114-97(49540)
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम्।
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे॥ 7-114-98(49541)
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः।
यदेकः समरे पार्थान्वारयामास सानुगान्॥ 7-114-99(49542)
पार्थाञ्जित्वाऽजयच्चेदीन्पाञ्चालान्सृञ्जयानपि।
केकयांश्च महावीर्यान्कृतवर्मा महारथः॥ 7-114-100(49543)
ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः।
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे॥ 7-114-101(49544)
जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान्।
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः॥ 7-114-102(49545)
ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः।
विमुखाः समपद्यन्त शरवृष्टिभिरार्दिताः॥ ॥ 7-114-103(49546)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुर्दशाधिकशततमोऽध्यायः॥ 114 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-114-1 बहुगुणं बहवो गुणाः शौर्यादयः संध्यादयो वा यस्मिन्। बलं प्रबलम्॥ 5-114-2 नः अभिकाममनुरक्तम्॥ 5-114-3 लघुनो मनोज्ञस्य वृत्तस्यायतनमायासः प्रायः प्रचुरं यत्र। सारगात्रं निबिडावयवम्॥ 5-114-5 पर्यवस्कन्दे अवरोहणे। सरणे प्रसरणे। सान्तरप्लुते प्लुवनान्तरीतायां गतौ। व्यपयानेऽपसरणे॥ 5-114-6 वेतनेन दिनमासवर्षदेयेन धनेन॥ 5-114-7 गोष्ठ्या संलापमात्रेण॥ 5-114-13 वाहनान्येवोर्मितरङ्गपरम्परा विद्यते यत्र। क्षेपण्यो यन्त्राणि॥ 5-114-14 रत्नैरुपलैश्च सुसञ्चितं सुष्ठुसञ्छादितम्। वाहनाभिधावनान्येव वायुवेगतया रूपितानि॥ 5-114-17 मम सैन्यस्य सेषमित्यन्वयः॥ 5-114-19 दारुणैकायने अतिभीषणेऽनन्यगतिके। अकाले अतीते समये॥ 5-114-23 लभ्यते सैन्येनार्थात्॥ 5-114-30 धृतिं धारणाम्॥ 5-114-35 व्यग्राननेकाग्रान्। अव्यग्रान् पलायनैकमनस इति वा॥ 5-114-51 निर्गुणतां गुणवैषम्यम्। द्वैधीभावमनिश्चयम्॥ 5-114-54 सुमहान् विपुल इति पर्यायाभ्यां महत्त्वोद्रेकः॥ 5-114-56 निर्णयं नियतस्वभावम्॥ 5-114-65 सर्वतः सर्वान्॥ 5-114-74 द्विधा स्थानद्वये॥ 5-114-88 कूर्मनखैः कूर्मनखाकृतिफलकैः॥ 5-114-114 चतुर्दशाधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.